पण्डः

सुधाव्याख्या

पण्डते । ‘पडि गतौ’ (भ्वा० आ० से०) । अच् (३.१.१३४) । यद्वा पणते । ‘पण व्यवहारे स्तुतौ’ (भ्वा० आ० से०) । ‘ञमन्ताड्डः’ (उ० १.११४) । ‘पण्डः षण्ढे, धियि स्त्री स्यात्’ (इति मेदिनी) ॥