शण्ढः

सुधाव्याख्या

शाम्यति । ‘शमु उपशमे’ (दि० प० से०) । ‘शमेर्ढः’ (उ० १.९९) । ‘क्लीबं शण्ढश्च कञ्चुकी’ इति तालव्यादौ रभसः । ‘शण्ढः स्यात्पुंसि गोपतौ । आकृष्टाण्डे वर्षवरे तृतीयप्रकृतावपि’ (इति मेदिनी) (‘शण्डषण्ढौ तु सौविदौ । वन्ध्यपुंसीड्वरे क्लीबे’ इति हैमः) ॥