अमरकोशः


श्लोकः

पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ । वस्त्रमाच्छादनं वासश्चेलं वसनमंशुकम् ॥ ११५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पटच्चर पटच्चरम् नपुंसकलिङ्गः पटति । अत् बाहुलकात् अकारान्तः
2 जीर्णवस्त्र जीर्णवस्त्रम् नपुंसकलिङ्गः जीर्णं च तद्वस्त्रं च ॥ तत्पुरुषः समासः अकारान्तः
3 नक्तक नक्तकः पुंलिङ्गः नक्तं कं सुखमस्माद्वा । तन् बाहुलकात् अकारान्तः
4 कर्पट कर्पटः पुंलिङ्गः कृणाति । विच् कृत् अकारान्तः
5 वस्त्र वस्त्रम् नपुंसकलिङ्गः वस्यतेऽनेन । ष्ट्रन् उणादिः अकारान्तः
6 आच्छादन आच्छादनम् नपुंसकलिङ्गः आच्छाद्यतेऽनेन ल्युट् कृत् अकारान्तः
7 वासस् वासस्म् नपुंसकलिङ्गः वस्यतेऽनेन । असुन् उणादिः सकारान्तः
8 चेल चेलम् नपुंसकलिङ्गः चिल्यतेऽनेन । घञ् कृत् अकारान्तः
9 वसन वसनम् नपुंसकलिङ्गः वस्यतेऽनेन । ल्युट् कृत् अकारान्तः
10 अंशुक अंशुकम् नपुंसकलिङ्गः अंशून् कायति । कृत् अकारान्तः