आच्छादनम्

सुधाव्याख्या

आच्छाद्यतेऽनेन । ल्युट् (३.३.११७) ॥


प्रक्रिया

धातुः -


छदँ अपवारणे
छद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आङ् + छद् + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
आ + छद् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
आ + छाद् + इ - अत उपधायाः 7.2.116
आ + छाद् + इ + ल्युट् - करणाधिकरणयोश्च 3.3.117
आ + छाद् + ल्युट् - णेरनिटि 6.4.51
आ + छाद् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
आ + छाद् + अन - युवोरनाकौ 7.1.1
आ + तुक् + छादन - आङ्माङोश्च 6.1.74
आ + त् + छादन - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आ + द् + छादन - झलां जशोऽन्ते 8.2.39
आ + ज् + छादन - स्तोः श्चुना श्चुः 8.4.40
आ + च् + छादन - खरि च 8.4.55
आच्छादन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आच्छादन + अम् - अतोऽम् 7.1.24
आच्छादनम् - अमि पूर्वः 6.1.107