कर्पटः

सुधाव्याख्या

किरति । ‘कॄ विक्षेपे’ (तु० प० से०) । कृणाति । ‘कॄ हिंसायाम्’ (क्र्या० प० से०) वा । करोति । ‘डुकृञ्’ (तु० उ० अ०) वा । विच् (३.२.७५) कर् चासौ पटश्च । यद्वा करस्य पटः । शकन्ध्वादिः (वा० ६.१.९४) ॥ स्वामी तु—द्रवद्रव्यं येन पूयते तत्र रूढो- ऽयम्-इत्याह । मुकुटस्तु-मलिनत्वादिदुष्टजीर्णवस्त्रखण्डस्य ॥