नक्तकः

सुधाव्याख्या

सेति । नजते । ‘ओ नजी व्रीडे’ (तु० अ० से०) । बाहुलकात्तन् । स्वार्थे कन् (ज्ञापि० ५.४.५) । नक्तं कं सुखमस्माद्वा । पृषोदरादित्वात् (६.३.१०९) मलोपः । क्वचित् ‘लक्तकः’ इति पाठः । लक्यते स्म । ‘लक आस्वादने’ () । क्तः (३.२.१०२) । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥