पटच्चरम्

सुधाव्याख्या

पेति । पटति । ‘पट गतौ’ (भ्वा० प० से०) । बाहुलकादत् । भूतपूर्वं पटत् । ‘भूतपूर्वे चरट्’ (५.३.५३) यद्वा ‘पटत्’ इत्यव्यक्तं शब्दं चरति करोति । अच् (३.१.१३४) । यद्वा पट इवाचरति । ‘सर्वप्रातिपदिकेभ्यः क्विब्वा’ (वा० ३.१) शत्रन्ताच्चरट् (५.३.५३) ॥