चेलम्

सुधाव्याख्या

चिल्यतेऽनेन । ‘चिल वसने’ (तु० प० से०) । घञ् (३.३.१९) । गौरादिः (४.१.४१) । -‘कल्पचेलट्-’ (६.३.४३) इति टित्त्वनिपातनाद्वा ङीप् । ‘चेलो नीचेऽधमे त्रिषु । नपुंसकं तु वसने’ इति मेदिनी ॥