अंशुकम्

सुधाव्याख्या

‘अंशुः सूत्रादिसूक्ष्मांशे किरणे चण्डदीधितेः’ (इति हैमः) । अंशून् कायति । कः (३.२.३) यद्वा अंशुभिः काशते । ‘काशृ दीप्तौ’ (भ्वा० आ० से०) । ‘अन्येभ्योऽपि’ (वा० ३.२.१०१) इति डः । ‘अंशुकं श्लक्ष्णवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः’ (इति मेदिनी) ॥ ‘पटोऽस्त्री कर्पटः शाटः सिचयप्रोतलक्तकाः’ इति रभसः ॥