अमरकोशः


श्लोकः

जतुकाऽजिनपत्रा स्यात्परोष्णी तैलपायिका । वर्वणा मक्षिका नीला सरघा मधुमक्षिका ॥ २६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 जतुका जतुका स्त्रीलिङ्गः जत्विव । कन् तद्धितः आकारान्तः
2 अजिनपत्रा अजिनपत्रा स्त्रीलिङ्गः अजिनमिव पत्त्रमस्याः ॥ बहुव्रीहिः समासः आकारान्तः
3 परोष्णी परोष्णी स्त्रीलिङ्गः परं शत्रु उष्णं यस्याः । बहुव्रीहिः समासः ईकारान्तः
4 तैलपायिका तैलपायिका स्त्रीलिङ्गः तैलं पिबति । ण्वुल् कृत् आकारान्तः
5 वर्वणा वर्वणा स्त्रीलिङ्गः ‘वर’ इति वणति । अच् कृत् आकारान्तः
6 मक्षिका मक्षिका स्त्रीलिङ्गः मशति सिकन् उणादिः आकारान्तः
7 नीला नीला स्त्रीलिङ्गः नीलति । अच् कृत् आकारान्तः
8 सरघा सरघा स्त्रीलिङ्गः सरं गतिमन्तं घातयति । कृत् आकारान्तः
9 मधुमक्षिका मधुमक्षिका स्त्रीलिङ्गः मधुकर्त्री मक्षिका ॥ तत्पुरुषः समासः आकारान्तः