सरघा

सुधाव्याख्या

सरेति । सरं गतिमन्तं घातयति । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः । णिलोपे (६.४.५१) टिलोपः (६.४.१४३) । यद्वा रङ्घणं रघः । ‘रघि गतौ’ (भ्वा० आ० से०) । ‘खनो घ च’ (३.३.१२५) इति घित्करणात् ‘अन्येभ्योऽपि’ इति घः । आगमशास्त्रस्यानित्यत्वान्न नुम् । सह रघेण गत्या वर्तते ॥


प्रक्रिया

धातुः -


हनँ हिंसागत्योः
हन् - उपदेशेऽजनुनासिक इत् 1.3.2
हन् + णिच् - हेतुमति च 3.1.26
सर + अम् + हन् + णिच् + ड - उपपदमतिङ् 2.2.19, अन्येभ्योऽपि दृश्यन्ते 3.2.75
सर + हन् + णिच् + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
सर + हन् + इ + ड - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
सर + हन् + ड - णेरनिटि 6.4.51
सर + हन् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
सर + ह् + अ - टेः 6.4.143
सर + घ् + अ - हो हन्तेर्ञ्णिन्नेषु 7.3.54
सरघ + टाप् - अजाद्यतष्टाप्‌ 4.1.4
सरघ + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
सरघा - अकः सवर्णे दीर्घः 6.1.101
सरघा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सरघा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सरघा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68