नीला

सुधाव्याख्या

नीलति । ‘णील वर्णे’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘नीला’ इति क्रियाशब्दोऽयं विवक्षितो न तु गुणशब्दः । अतो न ङीष् । गुणविवक्षायां ‘नीली’ इति भवत्येव ॥ ‘नीलवर्णमक्षिकायाः’ एकम् । केचित्तु नामत्रयमिदमाहुः । तदा तु ‘वा संज्ञायाम्’ (वा० ४.१.४२) इति युक्त एव ङीषभावः ॥