तैलपायिका

सुधाव्याख्या

तैलं पिबति । ‘पा पाने’ (भ्वा० प० अ०) । ण्वुल् (३.१.१३३) ॥ ‘तनुकृमिस्त्विन्द्रगोपः, परोष्णी तैलपायिका । तैलाभ्यक्ता खलाधारा हीरा पिप्पलिका स्त्रियाम्’ इति रभसः ।


प्रक्रिया

धातुः -


पा पाने
तैल + अम् + पा + ण्वुल् - उपपदमतिङ् 2.2.19, ण्वुल्तृचौ 3.1.133
तैल + पा + ण्वुल् - सुपो धातुप्रातिपदिकयोः 2.4.71
तैल + पा + वु - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
तैल + पा + अक - युवोरनाकौ 7.1.1
तैल + पा + युक् + अक - आतो युक् चिण्कृतोः 7.3.33
तैल + पा + य् + अक - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2
तैलपायक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
तैलपायक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
तैलपायिक + आ - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
तैलपायिका - अकः सवर्णे दीर्घः 6.1.101
तैलपायिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तैलपायिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तैलपायिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68