अमरकोशः


श्लोकः

कृष्णसाररुरुन्यङ्कुरङ्कुशंवररौहिषाः । गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः ॥ १० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कृष्णसार कृष्णसारः पुंलिङ्गः कृष्णेन सारः शबलः । तत्पुरुषः समासः अकारान्तः
2 रुरु रुरुः पुंलिङ्गः रौति । रु उणादिः उकारान्तः
3 न्यङ्कु न्यङ्कुः पुंलिङ्गः नितरामञ्चति । कु उणादिः उकारान्तः
4 रङ्कु रङ्कुः पुंलिङ्गः रमते रज्यते वा । कु उणादिः उकारान्तः
5 शम्बर शम्बरः पुंलिङ्गः शं वृणोति । अच् कृत् अकारान्तः
6 रौहिष रौहिषः पुंलिङ्गः रौहिषं तृणभेदमत्ति । अण् तद्धितः अकारान्तः
7 गोकर्ण गोकर्णः पुंलिङ्गः गोरिव कर्णावस्य । बहुव्रीहिः समासः अकारान्तः
8 पृषत पृषतः पुंलिङ्गः पृषताः सन्त्यस्य अच् तद्धितः अकारान्तः
9 एण एणः पुंलिङ्गः बाहुलकात् अकारान्तः
10 ऋश्य ऋश्यः पुंलिङ्गः ऋच्छति । श्यन् बाहुलकात् अकारान्तः
11 रोहित रोहितः पुंलिङ्गः रोहति । इतच् उणादिः अकारान्तः
12 चमर चमरः पुंलिङ्गः चमति, चम्यते, वा । अर उणादिः अकारान्तः