ऋष्यः

सुधाव्याख्या

ऋच्छति । इयर्ति वा बाहुलकात् श्यन् ॥ (ऋष्यः) मूर्धन्यान्तोऽपि ऋषति । ‘ऋषी गतौ’ (तु० प० से०) । अघ्न्यादित्वात् (उ० ४.११२) साधुः ॥ ‘रिष्य: अपि । रिष्यते । ‘रिष हिंसायाम्' (दि० प० से०) । अघ्न्यादिः (उ० ४.११२) । ‘एण: कुरङ्गे मारिष्यः स्यादृश्यश्चारुलोचनः' इति त्रिकाण्डशेषः ॥