पृषतः

सुधाव्याख्या

पृषताः सन्त्यस्य । अर्शआद्यच् (५.२.१२७) यद्वा पर्षति । ‘पृषु सेचने' (भ्वा० प० से०) । ‘पृषिरञ्जिभ्यां कित्’ (उ० ३.१११) इत्यतच् । ‘मृगो विन्दुः पृषंश्चैव पृषतश्च प्रकीर्तितः' इति व्याडिः । (पृषतवत् पृषन्मृगे । विन्दौ इति हैमः) । ‘पृषतस्तु मृगे बिन्दौ खरोहिते । श्वेतविन्दुयुतेऽपि स्यात्' इति हेमचन्द्रः ॥