कृष्णसारः

सुधाव्याख्या

कृष्णेति । कृष्णेन सारः शबलः । ‘तृतीया-' (२.१.३०) इति समासः । ‘कृष्णसारः शिंशपायां मृगभेदे स्नुहीतरौ' इति हैमः ॥ (‘कृष्णशारः' इति) तालव्यपाठे कृष्णश्चासौ शारश्च । ‘वर्णो वर्णेन' (२.१.७८) इति समासः । ‘शारः शबलवातयोः' इति तालव्यादौ रभसः ॥