अमरकोशः


श्लोकः

वेणी खरा गरी देवताडो जीमूत इत्यपि । श्रीहस्तिनी तु भूरुण्डी तृणशून्यं तु मल्लिका ॥ ६९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वेणी वेणी स्त्रीलिङ्गः वेणीव । ईकारान्तः
2 खरा खरा स्त्रीलिङ्गः तीक्ष्णत्वात् खरा आकारान्तः
3 गरी गरी स्त्रीलिङ्गः गृणाति। अच् कृत् ईकारान्तः
4 देवताड देवताडः पुंलिङ्गः देवमिन्द्रियं ताडयति । तत्पुरुषः समासः अकारान्तः
5 जीमूत जीमूतः पुंलिङ्गः अकारान्तः
6 श्रीहस्तिनी श्रीहस्तिनी स्त्रीलिङ्गः श्रिया हस्तः । इनि तद्धितः ईकारान्तः
7 भूरुण्डी भूरुण्डी स्त्रीलिङ्गः भुवं रुण्डयति आच्छादयति । तत्पुरुषः समासः ईकारान्तः
8 तृणशून्य तृणशून्यम् नपुंसकलिङ्गः यत् तद्धितः अकारान्तः
9 मल्लिका मल्लिका स्त्रीलिङ्गः मल्लते गन्धम् । कन् तद्धितः आकारान्तः