भूरुण्डी

सुधाव्याख्या

भुवं रुण्डयति आच्छादयति । ‘रुटि लुटि स्तेयकरणे' (भ्वा० प० से०) इत्यत्र माधवीयायां वृत्तौ ‘रुडि, लुडि, इत्यपरे' इति पाठान्तरमुपन्यस्तम् । ‘कर्मण्यण्' (३.२.१) ॥ हस्तिकर्णपत्रा शाकविशेष इति स्वामी । द्वे (माषादिक्षेत्रभवाया वकुलपुष्पाभलोहितपुष्पायाः हस्ति कर्णाभपत्रस्य 'शिरीहथिनी' इति ख्यातायाः ॥


प्रक्रिया

धातुः - रुडिँ स्तेये


रुड् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
रुन्ड् - इदितो नुम् धातोः 7.1.58
रुंड् - नश्चापदान्तस्य झलि 8.3.24
रुण्ड् - अनुस्वारस्य ययि परसवर्णः 8.4.58
भू + अम् + रुण्ड् + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
भू + रुण्ड् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
भूरुण्ड् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
भूरुण्ड + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
भूरुण्ड + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
भूरुण्ड् + ई - यस्येति च 6.4.148
भूरुण्डी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
भूरुण्डी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भूरुण्डी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68