मल्लिका

सुधाव्याख्या

मल्लते गन्धम् । मल्यते वा । ‘मल्ल धारणे' (भ्वा० आ० से०) । ‘सर्वधातुभ्य इन्' (उ० ४.११८) । वा ङीष् (ग० ४.१.४५) । स्वार्थे कन् (५.३.७५) । ‘मल्लिको हंसभिद्यपि । मल्लिका तृणशून्येऽपि मीनमृत्पात्रभेदयोः' इति मेदिनी ॥


प्रक्रिया