तृणशून्यम्

सुधाव्याख्या

तृणेति । ‘इतो धत्तूरान्तानि पुष्पाणि' इति स्वामी । तृणशून्ये स्थाने साधु । ‘तत्र साधुः' (४.४.९८) इति यत् । हलोयमाम् (८.४.६४) यलोपः । तृणशून्यं मल्लिकायां तथा स्यात्केतकीफले' इति विश्वमेदिन्यौ ॥ ‘तृणशूले गुल्मे साधु तृणशूल्यम्' इति तु स्वामी ॥