देवताडः

सुधाव्याख्या

‘देवो मेघे सुरे राज्ञि स्यान्नपुंसकमिन्द्रिये' इति मेदिनी ॥ देवमिन्द्रियं ताडयति । ‘तड आघाते' (चु० प० से०) । ‘कर्मण्यण्' (३.२.१) । ‘देवताडः सैंहिकेये जीमूते च हुताशने' इति मेदिनी ॥