श्रीहस्तिनी

सुधाव्याख्या

श्रीति । श्रिया हस्तः । श्रीहस्तो विद्यतेऽस्याः । ‘अत:' (५.२.११५) इतीनिः । हस्तं गृह्णाति हस्तयति, अवश्यं श्रियं हस्तयति । ‘आवश्यका-' (३.३.१७०) इति णिनिः, इति वा ॥