गरी

सुधाव्याख्या

गृणाति। ‘गॄ शब्दे' (क्र्या० प० से०) । पचाद्यच् । (गौरादिः) (४.१.४१) । ‘गरी खरायां करणे क्लीबं नागविषे विषे' ॥ खरं विषमागिरति । मूषकविषघ्नत्वात् । ‘खरागरी' इत्येकमाहुः ॥ -गरामागिरति । ‘गरागरी' इति तु स्वामी ॥ तदुक्तम् - ‘जीमूतको देवतो वृन्तकोशो गरागरी' इति ॥