अमरकोशः


श्लोकः

वृक्षो महीरुहः शाखी विटपी पादपस्तरुः । अनोकहः कुटः सालः पलाशी द्रुद्रुमागमा: ॥ ५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वृक्ष वृक्षः पुंलिङ्गः वृक्षति । अच् कृत् अकारान्तः
2 महीरुह महीरुहः पुंलिङ्गः मह्यां रोहति । कृत् अकारान्तः
3 शाखिन् शाखी पुंलिङ्गः शाखास्यास्ति । इनि तद्धितः नकारान्तः
4 विटपिन् विटपी पुंलिङ्गः विटपः शाखाविस्तारोऽस्यास्ति । इनि तद्धितः नकारान्तः
5 पादप पादपः पुंलिङ्गः पादैः पिबति । कृत् अकारान्तः
6 तरु तरुः पुंलिङ्गः तरति । उणादिः उकारान्तः
7 अनोकह अनोकहः पुंलिङ्गः अनसः शकटस्याकं गतिं हन्ति । कृत् अकारान्तः
8 कुट कुटः पुंलिङ्गः कुटति । सालः = सल्यते । अकारान्तः
9 साल सालः पुंलिङ्गः अकारान्तः
10 पलाशिन् पलाशी पुंलिङ्गः पलाशानि सन्त्यस्य । इनि तद्धितः नकारान्तः
11 द्रु द्रुः पुंलिङ्गः द्रवत्यूर्ध्वम् । डु कृत् उकारान्तः
12 द्रुम द्रुमः पुंलिङ्गः तद्धितः अकारान्तः
13 अगम अगमः पुंलिङ्गः न गच्छति । अच् कृत् अकारान्तः