शाखी

सुधाव्याख्या

शाखास्यास्ति । व्रीह्यादित्वात् (५.२.११६) इनिः । यद्वा अवश्यं शाखति । ‘शाखृ व्याप्तौ (भ्वा० प० से०) । आवश्यके णिनिः (३.३.१७) । 'शाखी स्यात्पादपे वेदे तुरुष्काख्यजने पुमान्' ॥