द्रुः

सुधाव्याख्या

द्रवत्यूर्ध्वम् । 'द्रु गतौ' (भ्वा० प० अ०) । मितद्रवादित्वात् (वा ३.२.१८) डुः ।


प्रक्रिया

धातुः - द्रु गतौ


द्रु + डु - डुप्रकरणे मितद्र्वादिभ्य उपसंख्यानम् (3.2.180) । वार्तिकम् ।
द्रु + उ - चुटू 1.3.7, तस्य लोपः 1.3.9
द्र् + उ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
द्रु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
द्रु + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
द्रु + रु - ससजुषो रुः 8.2.66
द्रु + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
द्रुः - खरवसानयोर्विसर्जनीयः 8.3.15