द्रुमः

सुधाव्याख्या

समुदाये वृत्ताः शब्दा अवयवेष्वपि वर्तन्ते’इति न्यायात् द्रुः शाखाऽस्यास्ति । ‘द्युद्रुभ्यां मः’(५.२.१८) । ‘द्रुमस्तु पादपे पारिजाते किंपुरुषेश्वरे’इति हैमः ।