कुटः

सुधाव्याख्या

कुटति । ‘कुट कौटिल्ये' (तु० प० से०) । पचाद्यच् (३.१.१३४) । ‘इगुपध-’ (३.१.१३५) इति को वा । मुकुटस्तु – ‘कौति शब्दायते पक्ष्यत्र इति । ‘कणेष्ठ:’ बाहुलकात् अन्येभ्योऽपि ट: । कुटादित्वात् (१.२.१) ङित्वे गुणाभावः । बाहुलकान्नेकादेशः इति वदन् टवर्गद्वितीयं मन्यते । तत्र ‘कौति’इति विगृह्य कुटादित्वोक्तिः प्रामादिकी । आदादिकस्य ‘कौति’इति रूपसम्भवात् । तौदादिकस्य 'कुवते' इति रूपस्य सम्भवात् ।