सालः

सुधाव्याख्या

सल्यते । ‘षल गतो (भ्वा० प० से०) । ‘अकर्तरि-’ (३.३.१४) इति घञ् । मुकुटस्तु सलति । वायुना चलति । ‘ज्वलितिकसन्तेभ्यो णः’(३.१.१४) – इत्याह । तन्न । दन्त्यादेस्तत्र पाठाभावात् । तालव्योष्मादेस्तत्र पाठात् । पुंसि भूरुहमात्रेऽपि सालो वरणसर्जयोः’ इति दन्त्यादौ रभसः । ‘साल: सर्जतरौ वृक्षमात्रप्राकारयोरपि' ।