अमरकोशः


श्लोकः

मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः । समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि ॥ १३३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मरुन्माला मरुन्माला स्त्रीलिङ्गः मरुद्भिर्मल्यते । तत्पुरुषः समासः आकारान्तः
2 पिशुना पिशुना स्त्रीलिङ्गः पिंशति । उनन् उणादिः आकारान्तः
3 स्पृक्का स्पृक्का स्त्रीलिङ्गः स्पृश्यते । कक् बाहुलकात् आकारान्तः
4 देवी देवी स्त्रीलिङ्गः दीव्यति । अच् कृत् ईकारान्तः
5 लता लता स्त्रीलिङ्गः लतति । अच् कृत् आकारान्तः
6 लघु लघुः स्त्रीलिङ्गः लङ्घते । उणादिः उकारान्तः
7 समुद्रान्ता समुद्रान्ता स्त्रीलिङ्गः समुद्रोऽन्तोऽस्याः ॥ बहुव्रीहिः समासः आकारान्तः
8 वधू वधूः स्त्रीलिङ्गः वहति । उणादिः ऊकारान्तः
9 कोटिवर्षा कोटिवर्षा स्त्रीलिङ्गः कोटिभिरग्रैर्वर्षति मधु । अच् कृत् आकारान्तः
10 लङ्कोपिका लङ्कोपिका स्त्रीलिङ्गः लङ्कायामुप्यते । क्वुन् उणादिः आकारान्तः