वधूः

सुधाव्याख्या

वहति । उह्यते वा । ‘वहो धश्च' (उ० १.८३) इत्यूः । ‘वधूः स्त्री शारिवौषधौ । स्नुषाशटीनवोढासु भार्यापृक्काङ्गनासु च' (इति मेदिनी) । ‘पृक्का च महिला वधूः' इति त्रिकाण्डशेषः ॥