कोटिवर्षा

सुधाव्याख्या

कोटिभिरग्रैर्वर्षति मधु । ‘वृषु सेचने (भ्वा० प० से०) । अच् (३.१.१३४) ॥


प्रक्रिया

धातुः - वृषुँ सेचनहिंसासङ्क्लेशनेषु


वृष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कोटि + भिस् + वृष् + अच् - उपपदमतिङ् 2.2.19, नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
कोटि + वृष् + अच् - सुपो धातुप्रातिपदिकयोः 2.4.71
कोटि + वृष् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कोटि + वर्ष् + अ - पुगन्तलघूपधस्य च 7.3.86
कोटिवर्ष + टाप् - अजाद्यतष्टाप्‌ 4.1.4
कोटिवर्ष + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
कोटिवर्षा - अकः सवर्णे दीर्घः 6.1.101
कोटिवर्षा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कोटिवर्षा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कोटिवर्षा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68