पिशुना

सुधाव्याख्या

पिंशति । ‘पिश अवयवे' (तु० प० से०) । ‘क्षुधिपिशिमिथिभ्यः कित्' (उ० ३.५५) इत्युनन् । ‘पिशुनं कुङ्कुमेऽपि च । कपिवक्त्रे च काके ना सूचकक्रूरयोस्त्रिषु । पृक्कायां पिशुना स्त्री स्यात् (इति मेदिनी) ॥