मरुन्माला

सुधाव्याख्या

‘मरुत्' इत्यत्राप्यन्वेति । ‘मरुद्देवे समीरे ना ग्रन्थिपर्णे नपुंसकम्’ (इति मेदिनी) ॥ मरुदिति । मरुद्भिर्मल्यते । ‘मल धारणे' (भ्वा० आ० से०) । घञ् (३.३.१९) । व्यस्तं समस्तं च नामेदम् । ‘स्पृक्का तु ब्राह्मणी देवी मरुन्माला लता लघुः । समुद्रान्ता वधूः कोटीवर्षा लङ्कोपिका मरुत् । मुनिर्माल्यवती माला मोहना कुटिला लता' इति वाचस्पतिः । म्रियते । ‘मृङ् प्राणत्यागे (तु० आ० से०) । ‘मृग्रोरुतिः' (उ० १.९४) ॥ मल्यते । ‘मल धारणे' (भ्वा० आ० से०) । घञ् (३.३.१९) ॥


प्रक्रिया

धातुः - मलँ धारणे


मल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मरुत् + भिस् + मल् + घञ् - अकर्तरि च कारके संज्ञायाम् 3.3.19
मरुत् + मल् + घञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
मरुत् + मल् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
मरुत् + माल् + अ - अत उपधायाः 7.2.116
मरुन्माल - यरोऽनुनासिकेऽनुनासिको वा 8.4.45
मरुन्माल + टाप् - अजाद्यतष्टाप्‌ 4.1.4
मरुन्माल + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
मरुन्माला - अकः सवर्णे दीर्घः 6.1.101
मरुन्माला + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मरुन्माला + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मरुन्माला - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68