लघुः

सुधाव्याख्या

लङ्घते । ‘लघि गतौ’ (भ्वा० आ० से०) । ‘लङ्घि बंह्योर्नलोपश्च' (उ० १.२९) इत्युः । ‘लघुरगुरौ च मनोज्ञे नि:सारे वाच्यवत् क्लीबम् । शीघ्रे कृष्णागरुणि पृक्कानामौषधौ तु स्त्री' (इति मेदिनी)॥