अमरकोशः


श्लोकः

काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित्स्त्रियाम् । निष्कुह: कोटरं वा ना वल्लरिर्मञ्जरिः स्त्रियौ ॥ १३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 काष्ठ काष्ठम् नपुंसकलिङ्गः काशते । क्थन् उणादिः अकारान्तः
2 दारु दारुः पुंलिङ्गः, नपुंसकलिङ्गः दीर्यते । ञुण् उणादिः उकारान्तः
3 इन्धन इन्धनम् नपुंसकलिङ्गः इन्धेऽग्निरनेन । ल्युट् कृत् अकारान्तः
4 एधस् एधः नपुंसकलिङ्गः एधतेऽनेन । असुन् उणादिः सकारान्तः
5 इध्म इध्मम् नपुंसकलिङ्गः इध्यतेऽनेन । मक् उणादिः अकारान्तः
6 एध एधः नपुंसकलिङ्गः घञ् कृत् अकारान्तः
7 समिध् समित् स्त्रीलिङ्गः समिध्यतेऽनया । क्विप् कृत् धकारान्तः
8 निष्कुह निष्कुहः पुंलिङ्गः निश्चयेन कुहयते । अच् कृत् अकारान्तः
9 कोटर कोटरम् पुंलिङ्गः, नपुंसकलिङ्गः कुटनं कोटः । घञ् कृत् अकारान्तः
10 वल्लरि वल्लरिः स्त्रीलिङ्गः पलं मांसमश्नाति । क्विप् कृत् इकारान्तः
11 मञ्जरि मञ्जरिः स्त्रीलिङ्गः मृजुत्वमृच्छति । उणादिः इकारान्तः