कोटरम्

सुधाव्याख्या

कुटनं कोटः । ‘कुट कौटिल्ये' (तु० प० से०) । भावे घञ् (३.३.१८) । कोटं राति । ‘रा दाने' (अ० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति कः ॥