मञ्जरिः

सुधाव्याख्या

मृजुत्वमृच्छति । अच इ:' (उ० ४.१३९) । शकन्ध्वादिः (वा० ६.१.९४) ॥ द्वे तुलस्यादेरभिनवोद्धिदि ।


प्रक्रिया

धातुः - ऋ गतौ


ऋ + इ - अच इः (४.१३९) । उणादिसूत्रम् ।
अर् + इ - सार्वधातुकार्धधातुकयोः 7.3.84
मञ्जु + सु + अरि + सु - उपपदमतिङ् 2.2.19
मञ्जु + अरि - सुपो धातुप्रातिपदिकयोः 2.4.71
मञ्जरि - शकन्ध्वादिषु पररूपं वाच्यम् (6.1.94) । वार्तिकम् ।
मञ्जरि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मञ्जरि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मञ्जरि + रु - ससजुषो रुः 8.2.66
मञ्जरि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मञ्जरिः - खरवसानयोर्विसर्जनीयः 8.3.15