वल्लरिः

सुधाव्याख्या

वल्लेति । वल्लते । ‘वल्ल संवरणे' (भ्वा० आ० से०) । क्विप् (३.२.१८०) । ऋच्छति । ‘ऋ गतौ' (भ्वा० प० अ०) । अच इः (उ० ४.१३९) । वल् चासावरिश्च । यद्वा वल्लेः सम्पदादित्वात् (वा० ३.३.१०८) क्विप् । वल्लमृच्छति । ‘अच इ:' (उ० ४.१३९) ॥


प्रक्रिया

धातुः - वल्लँ संवरणे सञ्चरणे च , ऋ गतौ


वल्लँ संवरणे सञ्चरणे च
वल्ल्
वल्ल् + क्विप्
वल्ल् + व्
वल्ल्
ऋ गतौ
ऋ + इ
अर् + इ
वल्ल् + सु + अरि + सु
वल्ल् + अरि
वल्लरि + सु
वल्लरि + स्
वल्लरि + रु
वल्लरि + र्
वल्लरिः