काष्ठम्

सुधाव्याख्या

काष्ठमिति । काशते । ‘काशृ दीप्तौ' (भ्वा० आ० से०) । ‘हनिकुषिनीरमिकाशिभ्यः क्थन्' (उ० २.२) । ‘तितुत्र (७.२.९) इति नेट् । 'काष्ठं दारुणि काष्ठा च प्रकर्षे स्थानमात्रके । दिशि दारुहरिद्रायां कालमानप्रभिद्यपि' इति हैम: ॥