अमरकोशः


श्लोकः

शिरोऽग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः । सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम् ॥ १२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शिरस् शिरः नपुंसकलिङ्गः श्रियते । असुन् उणादिः सकारान्तः
2 अग्र अग्रम् नपुंसकलिङ्गः अगति। रन् उणादिः अकारान्तः
3 शिखर शिखरम् पुंलिङ्गः, नपुंसकलिङ्गः शिखां राति । कृत् अकारान्तः
4 मूल मूलम् नपुंसकलिङ्गः मूलति । कृत् अकारान्तः
5 बुध्न बुध्नः पुंलिङ्गः बध्नाति बध्यते वा । नक् उणादिः अकारान्तः
6 अङ्घ्रिनामक अङ्घ्रिनामकः पुंलिङ्गः अङ्ग्रेर्नाम नाम यस्य । बहुव्रीहिः समासः अकारान्तः
7 सार सारः पुंलिङ्गः सरति कालान्तरम् । घञ् कृत् अकारान्तः
8 मज्जन् मज्जा पुंलिङ्गः मज्जति । कनिन् उणादिः नकारान्तः
9 त्वच् त्वक् स्त्रीलिङ्गः त्वचति । क्विप् कृत् चकारान्तः
10 वल्क वल्कम् पुंलिङ्गः, नपुंसकलिङ्गः वलति । कन् उणादिः अकारान्तः
11 वल्कल वल्कलम् पुंलिङ्गः, नपुंसकलिङ्गः बाहुलकात्कलः । कल बाहुलकात् अकारान्तः