मज्जा

सुधाव्याख्या

मज्जति । ‘टुमस्जो शुद्धौ' (तु० प० अ०) । ‘श्वन्नुक्षन्-' (उ० १.१५९) इति साधुः ॥ समौ समानलिङ्गौ । ‘नरि' इति वा पाठः । पुंसीत्यर्थ: ॥ ‘लज्जावद्राजवन्मज्जा मांससारास्थिसारयोः इति भागुरेराबन्तोऽपि । ‘मज्जोक्ता मज्जया सह' इति द्विरूपकोषाच्च ॥


प्रक्रिया

धातुः - टुमस्जोँ शुद्धौ


मस्ज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9, आदिर्ञिटुडवः 1.3.5
मज्ज् + कनिन् - श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परिज्जन्मातरिश्वन्मघवन्निति (१.१५९) । उणादिसूत्रम् ।
मज्ज् + अन् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
मज्जन् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मज्जन् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मज्जान् + स् - सर्वनामस्थाने चासम्बुद्धौ 6.4.8
मज्जान् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
मज्जा - नलोपः प्रातिपदिकान्तस्य 8.2.7