शिरः

सुधाव्याख्या

शिर इति । श्रियते । ‘श्रीञ् सेवायाम्' (भ्वा० उ० से०) । ‘श्रयते: स्वाङ्गे शिर: किच्च' (उ० ४.१९४) इत्यसुन्, धातो: शिरादेशश्च । यत्तु-शेते स्वाङ्गोपरि तिष्ठति । ‘शीङः किच्च इत्यसुन् शिरादेशश्च – इति मुकुटः । तन्न । उज्ज्वलदत्तादिषूक्तसूत्रादर्शनात् । 'शिरः प्रधाने सेनाग्रे शिखरे मस्तकेऽपि च ।