वल्कम्

सुधाव्याख्या

वलति । ‘वल संवरणे' (भ्वा० आ० से०) । ‘शुकवल्कोल्काः' (उ० ३.४२) इति कन् । यद्वा ‘वल्क परिभाषणे' (चु० प० से०) । वल्कयति । पचाद्यच् (३.१.१३४) । (‘वल्कं वल्कलशल्कयोः')॥