अग्रम्

सुधाव्याख्या

अगति। 'अग कुटिलायां गतौ' । (भ्वा० प० से०) । 'ऋज्रेन्द्राग्रवज्र-' (उ० २.२८) इति साधु । 'अग्रं पुरस्तादुपरि परिमाणे पलस्य च । आलम्बने समृहे च प्रान्ते च स्यान्नपुंसकम् । अधिके च प्रधाने च प्रथमे चाभिधेयवत् ॥


प्रक्रिया

धातुः - अगँ कुटिलायां गतौ


अग् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अग् + रन् - ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः (२.२८) । उणादिसूत्रम् ।
अग् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अग्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अग्र + अम् - अतोऽम् 7.1.24
अग्रम् - अमि पूर्वः 6.1.107