अमरकोशः


श्लोकः

अर्शोघ्नः शूरण: कन्दः गण्डीरस्तु समष्ठिला । कलम्ब्युपोदकास्त्री तु मूलकं हिलमोचिका ॥ १५७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अर्शोघ्न अर्शोघ्नः पुंलिङ्गः अर्शांसि हन्ति । टक् कृत् अकारान्तः
2 शूरण शूरणः पुंलिङ्गः शूर्यते । युच् उणादिः अकारान्तः
3 कन्द कन्दः पुंलिङ्गः कन्दयति । अच् कृत् अकारान्तः
4 गण्डीर गण्डीरः पुंलिङ्गः गण्डति, गण्ड्यते, वा । ईरन् बाहुलकात् अकारान्तः
5 समष्ठिला समष्ठिला स्त्रीलिङ्गः समे तिष्ठति । इलच् उणादिः आकारान्तः
6 कलम्बी कलम्बी स्त्रीलिङ्गः के जले लम्बते । ‘ अम्बच् उणादिः ईकारान्तः
7 उपोदका उपोदका स्त्रीलिङ्गः उपाधिकमुदकमस्याम् । बहुव्रीहिः समासः आकारान्तः
8 मूलक मूलकम् पुंलिङ्गः, नपुंसकलिङ्गः मूलेति । क्वुन् उणादिः अकारान्तः
9 हिलमोचिका हिलमोचिका स्त्रीलिङ्गः हिला चासौ मोचिका च । कृत् आकारान्तः