कलम्बी

सुधाव्याख्या

केति । कडति । ‘कड मदे' (भ्वा० प० से०) । ‘कृकदिकडिकटिभ्योऽम्बच्’(उ० ४.८२) । डलयोरेकत्वम् । के जले लम्बते । ‘लबि अवस्रंसने’(भ्वा० आ० से०) । पचाद्यच् (३.१.१३४) । गौरादिः (४.१.४१) । ‘कलम्बी तु शतपर्वा कलम्बूर्वासु वीरुधः' इति वाचस्पतिः । ‘कलम्बी शाकभेदेऽपि कदम्बशरयोः पुमान्’ (इति मेदिनी) ॥