हिलमोचिका

सुधाव्याख्या

हिलेति । हिलति । ‘हिल भावकरणे' (तु० प० से०) । ‘इगुपध-' (३.१.१३५) इति कः । मोचयति । ण्वुल् (३.१.१३३) । हिला चासौ मोचिका च । ‘ङ्यापो: (६.३.६३) इति ह्रस्वः ॥


प्रक्रिया

धातुः - हिलँ भावकरणे , मुचॢँ मोक्षणे


हिलँ भावकरणे
हिल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
हिल् + क - इगुपधज्ञाप्रीकिरः कः 3.1.135
हिल् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
हिल + टाप् - अजाद्यतष्टाप्‌ 4.1.4
हिल + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
हिला - अकः सवर्णे दीर्घः 6.1.101
हिला + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
हिला + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
हिला - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
मुचॢँ मोक्षणे
मुच् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मुच् + ण्वुल् - ण्वुल्तृचौ 3.1.133
मुच् + वु - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
मुच् + अक - युवोरनाकौ 7.1.1
मोच् + अक - पुगन्तलघूपधस्य च 7.3.86
मोचक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
मोचक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
मोचका - अकः सवर्णे दीर्घः 6.1.101
मोचिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
हिला + सु + मोचिका + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
हिला + मोचिका - सुपो धातुप्रातिपदिकयोः 2.4.71
हिलमोचिका - ङ्यापोः संज्ञाछन्दसोर्बहुलम् 6.3.63
हिलमोचिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
हिलमोचिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
हिलमोचिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68