सूरणः

सुधाव्याख्या

शूर्यते । ‘शूरी हिंसायाम्' (दि० आ० से०) । ‘बहुलमन्यत्रापि' (उ० २.७८) इति युच् । कर्तरि ल्युट् (३.३.११३) वा । यत्तु शूरति इति विगृहीतं मुकुटेन । तन्न । शूरीधातोर्दिवाद्यात्मनेपदित्वात् ॥ सूर्यते । ‘सूरी हिंसायाम् । युच् (उ० २.७८) । ल्युट् (३.१.११३) वा । इति (सूरणः) दन्त्यादिरपि ॥